|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.264. अध्यायः 264
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति ब्राह्मणानां महत्तरत्वे दृष्टान्ततया स्वेन प्रद्युम्नं प्रत्युक्तदुर्वासश्चरित्रप्रतिपादनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन।
वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः॥ 13-264-1(91968)
वासुदेव उवाच। 13-264-2x(7707)
शृणुष्वावहितो राजन्द्विजानां भरतर्षभ।
यथातत्त्वेन वदतो गुणान्वै कुरुसत्तम॥ 13-264-2(91969)
द्वारवत्यां समासीनं पुरा मां कुरुनन्दन।
प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः॥ 13-264-3(91970)
किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन।
ईश्वरत्वं कुतस्तेषामिहैव च परत्र च॥ 13-264-4(91971)
सदा द्विजातीन्सम्पूज्य किं फलं तत्र मानद।
एतद्ब्रूहि स्फुटं सर्वं सुमहान्संशयोऽत्र मे॥ 13-264-5(91972)
इत्युक्ते वचने तस्मिन्प्रद्युम्नेन तथा त्वहम्।
प्रत्यब्रवं महाराज यत्तच्छृणु समाहितः॥ 13-264-6(91973)
व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे।
एते हि सोमराजान ईश्वराः सुखदुःखयोः॥ 13-264-7(91974)
अस्मिँल्लोके रौक्मिणेय तथाऽमुष्मिंश्च पुत्रक।
ब्राह्मणप्रमुखं सौम्यं न मेऽत्रास्ति विचारणा॥ 13-264-8(91975)
ब्राह्मणप्रभवं सौख्यमायुः कीर्तिर्यशो बलम्।
लोका लोकेश्वराश्चैव सर्वे ब्राह्मणपूजकाः॥ 13-264-9(91976)
त्रिवर्गे चापवर्गे च यशःश्रीरोगशान्तिषु।
देवतापितृपूजासु सन्तोष्याश्चैव नो द्विजाः॥ 13-264-10(91977)
तान्कथं वै नाद्रियेयमीश्वरोस्मीति पुत्रक।
मा ते मन्युर्महाबाहो भवत्वत्र द्विजान्प्रति॥ 13-264-11(91978)
ब्राह्मणा हि महद्भूतमस्मिँल्लोके परत्र च।
भस्म कुर्यर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः॥ 13-264-12(91979)
हन्युस्तेऽपि सृजेयुस्च लोकान्लोकेश्वरांस्तथा।
कथं तेषु न वर्तेरन्सम्यग्ज्ञानात्सुतेजसः॥ 13-264-13(91980)
अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः।
चीरवासा बिल्वदण्डी दीर्घश्मश्रुः कृशो महान्॥ 13-264-14(91981)
दीर्घभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि।
स स्वैरं चरते लोकान्ये दिव्या ये च मानुषाः॥ 13-264-15(91982)
इमां गाथां गायमानश्चत्वरेषु सभासु च।
दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे॥ 13-264-16(91983)
रोषणः सर्वभूतानां सूक्ष्मेऽप्यपकृते कृते।
परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम्॥ 13-264-17(91984)
यो मां कश्चिद्वासयीत न स मां कोपयेदिति।
यस्मान्नाद्रियते कश्चित्ततोऽहं समवासयम्॥ 13-264-18(91985)
स सम्भुङ्क्ते सहस्राणां बहूनामन्नमेकदा।
एकदा सोल्पकं भुङ्क्ते नचैवैति पुनर्गृहान्॥ 13-264-19(91986)
अकस्माच्च प्रहसति तथाऽकस्मात्प्ररोदिति।
न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा॥ 13-264-20(91987)
अथ स्वावसथं गत्वा सशय्यास्तरणानि च।
अदहत्स महातेजास्ततश्चाभ्यपतत्स्वयम्॥ 13-264-21(91988)
अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः।
कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः॥ 13-264-22(91989)
तदैव तु मया तस्य चित्तज्ञेन गृहे जनः।
सर्वाण्यन्नानि पानानि भक्ष्याश्चोच्चावचास्तथा॥ 13-264-23(91990)
भवन्तु सत्कृतानीह पूर्वमेव प्रयोचितः।
ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम्॥ 13-264-24(91991)
तं भुक्त्वैव स तु क्षिप्रं ततो वचनमब्रवीत्।
क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह॥ 13-264-25(91992)
अविमृश्यैव च ततः कृतवानस्मि तत्तथा।
तेनोच्छिष्टेन गात्राणि शरीरं च समालिपम्॥ 13-264-26(91993)
स ददर्श तदाऽभ्याशे मातरं ते शुभाननाम्।
तामपि स्मयमानां स पायसेनाभ्यलेपयत्॥ 13-264-27(91994)
मुनिः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत्।
तमारुद्य रथं चैव निर्ययौ स गृहान्मम॥ 13-264-28(91995)
अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत्।
प्रतोदेनातुदद्बालां रुक्मिणीं मम पश्यतः॥ 13-264-29(91996)
न च मे स्तोकमप्यासीद्दुः खमीर्ष्याकृतं तदा।
तथा स राजमार्गेणि महता निर्ययौ बहिः॥ 13-264-30(91997)
तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः।
तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम्॥ 13-264-31(91998)
ब्राह्मणा एव जायेरन्नान्यो वर्णः कथञ्चन।
को ह्येनां रथमास्थाय जीवेदन्य पुमानिह॥ 13-264-32(91999)
आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरो द्विजः।
ब्रह्माहिविषदिग्धस्य नास्ति कश्चिच्चिकित्सकः॥ 13-264-33(92000)
तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि।
अमर्षयंस्तथा श्रीमान्स्मितपूर्वमचोदयम्॥ 13-264-34(92001)
ततः परमसंक्रुद्धो रथात्प्रस्कन्द्य स द्विजः।
पदातिरुत्पथेनैव प्राद्रवद्दक्षिणामुखः॥ 13-264-35(92002)
तमुत्पथेन धावन्तमन्वधावं द्विजोत्तमम्।
तथैव पायसादिग्धः प्रसीद भगवन्निति॥ 13-264-36(92003)
ततो विलोक्य तेजस्वी ब्राह्मणो मामुवाच ह।
जितः क्रोधस्त्वया कृष्ण प्रकृत्यैव महाभुज॥ 13-264-37(92004)
न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत।
प्रीतोस्मि तव गोविन्द वृणु कामान्यथेप्सितान्॥ 13-264-38(92005)
प्रसन्नस्य च मे तात पश्य व्युष्टिं यथाविधाम्॥ 13-264-39(92006)
यावदेव मनुष्याणामन्ने भावो भविष्यति।
यथैवान्ने तथा तेषां त्वयि भावो भविष्यति॥ 13-264-40(92007)
यावच्च पुण्या लोकेषु त्वयि कीर्तिर्भविष्यति।
त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे।
सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन॥ 13-264-41(92008)
यत्ते भिन्नं च दग्धं च यच्च किञ्चिद्विनाशितम्।
सर्वं तथैव द्रष्टासि विशिष्टं जनार्दन॥ 13-264-42(92009)
यावदेतत्प्रलिप्तं ते गात्रेषु मधुसूदन।
अतो मृत्युभयं नास्ति यावदिच्छसि चाच्युत॥ 13-264-43(92010)
न तु पादतले लिप्ते तस्मात्ते मृत्युरत्र वै।
नैतन्मे प्रियमित्येवं स मां प्रीतोऽब्रवीत्तदा॥ 13-264-44(92011)
इत्युक्तोऽहं शरीरं स्वं ददर्श श्रीसमायुतम्। 13-264-45(92012)
रुक्मिणीं चाब्रवीत्प्रीतः सर्वस्त्रीणां वरं यशः।
कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने॥ 13-264-46(92013)
न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भामिनि।
स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णमाराधयिष्यसि॥ 13-264-47(92014)
षोडशानां सहस्राणां बधूनां केशवस्य ह।
वरिष्ठा च सलोक्या च केशवस्य भविष्यसि॥ 13-264-48(92015)
तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत्।
प्रस्थितः सुमहातेजा दुर्वासाऽग्निरिव ज्वलन्॥ 13-264-49(92016)
एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव।
इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत॥ 13-264-50(92017)
तस्मिन्नन्तर्हिते चाहमुपांशु व्रतमाचरम्।
यत्किञ्चिद्ब्राह्मणो ब्रूयात्सर्वं कुर्यामिति प्रभो॥ 13-264-51(92018)
एतद्व्रतमहं कृत्वा मात्रा ते सह पुत्रक।
ततः परमहृष्टात्मा प्राविशं गृहमेव च॥ 13-264-52(92019)
प्रविष्टमात्रश्च गृहे सर्वं पश्यामि तन्नवम्।
यद्भिन्नं यच्च वै दग्धं तेन विप्रेण पुत्रक॥ 13-264-53(92020)
ततोऽहं विस्मयं प्राप्तः सर्वं दृष्ट्वा नवं दृढम्।
अपूजयं च मनसा रौक्मिणेय सदा द्विजान्॥ 13-264-54(92021)
इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ।
माहात्म्यं द्विजमुख्यस्य सर्वमाख्यातवांस्तदा॥ 13-264-55(92022)
तथा त्वमपि कौन्तेय ब्राह्मणान्सततं प्रभो।
पूजयस्व महाभागान्वाग्भिर्दानैश्च नित्यदा॥ 13-264-56(92023)
एवं व्युष्टिमहं प्राप्तो ब्राह्मणस्य प्रसादजाम्।
यच्च मामाह भीष्मोऽयं तत्सत्यं भरतर्षभ॥ ॥ 13-264-57(92024)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःषष्ट्यधिकद्विशततमोऽध्यायः॥ 264 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-264-8 सौम्यं कल्याणम्॥ 7-264-9 ब्राह्मणप्रतिपूजायामायुरिति झ. पाठः॥ 7-264-14 दीर्घश्मश्रुनखादिमानिति थ.ध.पाठः॥ 7-264-23 जन इति इति शेषपूर्त्या सम्बन्धः॥ 7-264-44 लिप्ते कस्मात्ते पुत्रकाद्य वै इति झ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|